(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.81. अध्यायः 081
Mahabharata - Karna Parva - Chapter Topics
पार्थपराक्रमः॥ 1 ॥ भीमेन दुर्योधनचोदितस्य शकुनेः पराजयः॥ 2 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-81-0x(5034)(58953)
श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे।
अर्जुनः प्राह गोविन्दं शीघ्रं वाहय वाजिनः॥ 8-81-1(58954)
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत्।
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः॥ 8-81-2(58955)
तं यान्तमश्वा हिमशङ्खवर्णाः
सुवर्णमुक्तामणिजालनद्धाः।
जम्भं जिघांसुं प्रगृहीतवज्रं
हया यथा तत्र यथा वहंस्तदा॥ 8-81-3(58956)
रथाश्वमातङ्गपदातिसङ्घा
बाणस्वनैर्नेमिखुरस्वनैश्च।
सन्नादयन्तो वसुधां दिशश्च
क्रुद्धा नृसिंहा जयमभ्युदीयः॥ 8-81-4(58957)
तेषां च पार्थस्य च मारिषासी--
द्देहासुपापक्षपणं सुयुद्धम्।
त्रैलोक्यहेतोरसुरैर्यथासी--
द्देवस्य विष्णोर्जयतां वरस्य॥ 8-81-5(58958)
तैरस्तमुच्चावचमायुधं त--
देकः प्रचिच्छेद किरीटमाली।
क्षुरार्धचन्द्रैर्निशितैश्च भल्लैः
शिरांसि तेषां बहुधा च बाहून्॥ 8-81-6(58959)
छत्राणि वालव्यजनानि केतू--
नश्वान्रथान्पत्तिगणान्द्विपांश्च।
ते पेतुरुर्व्यां बहुधा विकृत्ता
वातप्रणुन्नानि यथा वनानि॥ 8-81-7(58960)
सुवर्णजालावनता महागजाः
सवैजयन्तीध्वजयोधकल्पिताः।
सुवर्णपुङ्घैरिषुभिः समाचिता--
शकाशिरे प्रज्वलिता यथाचलाः॥ 8-81-8(58961)
विदार्य नागाश्वरथान्धञ्जयः
शरोत्तमैर्वासववज्रसन्निभैः।
द्रुतं ययौ कर्णजिघांसया तथा
यथा मरुत्वान्बलभेदने पुरा॥ 8-81-9(58962)
ततः स पुरुषव्याघ्रस्तव सैन्यमरिन्दमः।
प्रविवेश महाबाहुर्मकरः सागरं यथा॥ 8-81-10(58963)
तं हृष्टास्तावका राजन्रथपत्तिसमन्विताः।
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन्॥ 8-81-11(58964)
तेषामापततां पार्थमारावः सुमहानभूत्।
सागरस्येव क्षुब्धस्य यथा स्यात्सलिलस्वनः॥ 8-81-12(58965)
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः।
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम्॥ 8-81-13(58966)
तेषामापततां तत्र शरवर्षाणि मुञ्चताम्।
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव॥ 8-81-14(58967)
तेऽर्जुनं सहिता भूत्वा रथवंशैः ग्रहारिणः।
अभियाय महेष्वासा विव्यधुर्निशितैः शरैः॥ 8-81-15(58968)
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम्।
प्रेषयामास विशिखैर्यमस्य सदनं प्रति॥ 8-81-16(58969)
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः।
तत्रतत्र स्म लीयन्ते भये जाते महारथाः॥ 8-81-17(58970)
तेषां चतुःशतान्वीरान्यतमानान्महारथान्।
अर्जुनो निशितैर्बाणैरनयद्यमसादनम्॥ 8-81-18(58971)
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः।
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो दश॥ 8-81-19(58972)
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे।
मेघौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः॥ 8-81-20(58973)
तां तु सेनां भृशं विद्ध्वा द्रावयित्वाऽर्जुनः शरैः।
प्रायादभिमुखः पार्थः सूतानीकं हि मारिष॥ 8-81-21(58974)
तस्य शब्दो महानासीत्परानभिमुखस्य वै।
गरुडस्येव पततः पन्नगार्थे यथा पुरा॥ 8-81-22(58975)
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः।
बभूव परमप्रीतः पार्थदर्शनलालसः॥ 8-81-23(58976)
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान्।
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह॥ 8-81-24(58977)
स वायुवीर्यप्रतिमो वायुवेगसमो जवे।
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान्॥ 8-81-25(58978)
तेनाद्यमाना राजेन्द्र सेना तव विशाम्पते।
व्यभ्रश्यत महाराज भिन्ना नौरिव सागरे॥ 8-81-26(58979)
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम्।
शरैरवचकर्तोग्रैः प्रेपयिष्यन्यमक्षयम्॥ 8-81-27(58980)
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम्।
व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये॥ 8-81-28(58981)
तथाऽर्दितान्भीमबलान्भीमसेनेन भारत।
दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत्॥ 8-81-29(58982)
सैनिकांश्च महेष्वासान्योधांश्च भरतर्षभ।
समादिशन्रणे सर्वान्हत भीममिति स्म ह॥ 8-81-30(58983)
तस्मिन्हते हतं मन्ये पाण्डुसैन्यमशेषतः॥ 8-81-31(58984)
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः।
भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः॥ 8-81-32(58985)
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः।
रथे स्थिताश्च राजेन्द्र परिवव्रुर्वृकोदरम्॥ 8-81-33(58986)
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः।
शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः॥ 8-81-34(58987)
परिवेषी यथा सोमः परिपूर्णो विराजते।
स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः।
निर्विशेषो महाराज विजयेनैव संयुगे॥ 8-81-35(58988)
तस्य ते पार्थिवाः सर्वे शरवृष्टिं समासृजन्।
क्रोधरक्तेक्षणाः शूरा हन्तुकामा वृकोदरम्॥ 8-81-36(58989)
तां विदार्य महासेनां शरैः सन्नतपर्वभिः।
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि॥ 8-81-37(58990)
हत्वा दशसहस्राणि गजानामनिवर्तिनाम्।
नृणां शतसहस्रे द्वे द्वे शते चैव भारत॥ 8-81-38(58991)
पञ्च चाश्वसहस्राणि रथानां शतमेव च।
हत्वा प्रास्यन्दयद्भीमो नदीं शोणितवाहिनीम्॥ 8-81-39(58992)
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्।
नरमीनाश्वनक्रान्तां केशशैवलशाद्वलाम्॥ 8-81-40(58993)
सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम्।
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमावृताम्॥ 8-81-41(58994)
धनुःकाशां शरावापां गदापरिघकेतनाम्।
हंसछत्रध्वजोपेतामुष्णीषवरफेनिलाम्॥ 8-81-42(58995)
हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम्।
आर्यवृत्तवतीं सङ्ख्ये सुतरां भीरुदुस्तराम्॥ 8-81-43(58996)
योधग्राहवतीं सङ्ख्ये वहन्तीं पितृसादनम्।
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम्॥ 8-81-44(58997)
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः।
तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम्॥ 8-81-45(58998)
यतोयतः पाण्डवेयः प्रविष्टो रथसत्तमः।
ततस्ततः प्रापतन्वै योधाः शतसहस्रशः॥ 8-81-46(58999)
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे।
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत्॥ 8-81-47(59000)
जहि मातुल सङ्ग्रामे भीमसेनं महाबलम्।
अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम्॥ 8-81-48(59001)
ततः प्रायान्महाराज सौबलेयः प्रतापवान्।
रणाय महते युक्तो भ्रातृभिः परिवारितः॥ 8-81-49(59002)
स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम्।
वारयामास तं वीरो वेलेव मकरालयम्॥ 8-81-50(59003)
सन्न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः।
शकुनिस्तस्य राजेन्द्र वामपार्श्वे स्तनान्तरे।
प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान्॥ 8-81-51(59004)
वर्म भित्त्वा तु ते घोराः पाण्डवस्य महात्मनः।
न्यम़ञ्जन्त महाराज कङ्कबर्हिणवाससः॥ 8-81-52(59005)
सोऽतिविद्धो रणे भीमः शरं रुक्मविभूषितम्।
प्रेषयामास स रुषा सौबलं प्रति भारत॥ 8-81-53(59006)
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः।
चिच्छेद सप्तधा राजन्कृतहस्तो महाबलः॥ 8-81-54(59007)
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशाम्पते।
धनुश्छिच्छेद भल्लेन सौबलस्य हसन्निव॥ 8-81-55(59008)
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान्।
अन्यदादाय वेगेन धनुर्भल्लांश्च षोडश।
तैस्तस्य तु महाराज भल्लैः सन्नतपर्वभिः॥ 8-81-56(59009)
द्वाभ्यां स सारथिं ह्यार्च्छद्भीमं सप्तभिरेव च।
ध्वजमेकेन चिच्छेद द्वाभ्यां छत्रं विशाम्पते।
चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः॥ 8-81-57(59010)
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान्।
शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम्॥ 8-81-58(59011)
सा भीमभुजनिर्मुक्ता नागजिह्वेन चञ्चला।
निपपात रणे तूर्णं सौबलस्य महात्मनः॥ 8-81-59(59012)
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम्।
भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते॥ 8-81-60(59013)
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः।
निपपात तदा भूमौ यथा विद्युन्नभश्च्युता॥ 8-81-61(59014)
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः।
न तु तं ममृषे भीमः सिंहनादं तरस्विनाम्॥ 8-81-62(59015)
अन्यद्गृह्य धनुः सज्यं त्वरमाणो महाबलः।
मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः।
सौबलस्य बलं सङ्ख्ये त्यक्त्वा नादं महाबलः॥ 8-81-63(59016)
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते।
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी॥ 8-81-64(59017)
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः।
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन्॥ 8-81-65(59018)
शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः॥ 8-81-66(59019)
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान्।
धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः॥ 8-81-67(59020)
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः।
निपपात तदा भूमौ किञ्चित्प्राणो नराधिपः॥ 8-81-68(59021)
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते।
अपोवाह रथेनाजौ भीमसेनस्य पश्यतः॥ 8-81-69(59022)
शकुनिं विह्वलं दृष्ट्वा धार्तराष्ट्राः पराङ्मुखाः।
प्रदुद्रुवुर्दिशो भीता भीमसेनभयात्प्रभो॥ 8-81-70(59023)
सौबले निर्जिते राजन्भीमसेनेन धन्विना।
भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव।
अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति॥ 8-81-71(59024)
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत।
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः॥ 8-81-72(59025)
तान्दृष्ट्वा विद्रुतान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान्।
जवेनाभ्यापतद्भीमः किरञ्शरशतान्बहून्॥ 8-81-73(59026)
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः।
कर्णमासाद्य समरे स्थिता राजन्समन्ततः॥ 8-81-74(59027)
स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः।
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः॥ 8-81-75(59028)
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये।
तथा कर्णं समासाद्य तावकाः पुरुषर्षभ॥ 8-81-76(59029)
समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम्।
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम्॥ ॥ 8-81-77(59030)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकाशीतितमोऽध्यायः॥ 81 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.